top of page
रेणुकास्तोत्रम् (मुचुकुन्दकृतम्) | Renuka Stotram Muchukunda kritam
रेणुकास्तोत्रं मुचुकुन्दकृतम्
श्रीगणेशाय न मः ।
मुचुकुन्द उवाच
अनाथमकृतप्रज्ञं अज्ञानतिमिरावृतम् ।
मोहपङ्कनिमग्नञ्च मामुद्धर सुरेश्वरि ॥
त्वां रेणुकेति वरदेति च सुन्दरीति
वागीश्वरीति सकलेति च पार्वतीति ।
सिद्धेश्वरीति सुभगेति च ये वदन्ति
तान् देवि नित्यमनधान् परिपालय त्वम् ॥
अम्बेति विश्वजननीति जगद्धितेति
विद्येति धर्मनिरतेति परात्परेति ।
आद्येति वेदजननीति च ये वदन्ति
तान…