top of page

रेणुकास्तोत्रम् (विनायकशास्त्रिकृतम्) | Renuka Stotram by Vinayaka shastri

रेणुकास्तोत्रं श्रीविनायकशास्त्रिकृतम् 

श्रीगणेशाय नमः ।

त्वदीयपदरेणुके शिरसि मामके रेणुके 
निधाय वरदं करं ननुदरं ममाऽनीनशः ।
स्ववत्सलतयाऽनुदोर्नयनलालनच्छद्मना 
प्रमोदभर-दृग्झर-स्तुतमदश्रुभिर्धावये ॥

प्रणम्य सुषमामिषद् दृग्निमेषशीर्सोल्लसत्-
किरीटकुलसङ्कुलं परिमलाऽलमङ्घ्र्युत्पलम् ।
मनोलिरयमुमदः सपदि तेऽनुजिघ्रन्मनाक्
तदन्यसुमनस्सु किं व्रजति नाधुना तत्स्मरन् ॥

भजन्तु विषयान् सजूर्विषयिणो विषाणीवते 
रसारसिकमौलिना मम मनोऽलिनान्यक्कृताः ।
श्रुतं तदवलोकितं भवतु तत्स्पृशन् जिघ्रता
रसालपदपङ्कजं जननि ते सदा स्वाद्यताम् ॥

विजित्य हृदुपस्थितो मुहुरुपस्थितानन्दकम् 
विशुद्धिमुपसंहरन्  विरमताभवद्भक्तिषु ।
गिरा भजतु ना…
bottom of page