top of page
रेणुकास्तोत्रम् (श्रीधरस्वामिकृतम्) | Renuka Stotram by Shridhara Swami
रेणुकास्तोत्रं श्रीधरस्वामिकृतम्
श्रीग णेशाय नमः ।
शिवां शान्तरूपां मनोवागतीतां
निजानन्दपूर्णां सदाऽद्वैतरूपाम् ।
परां वेदगम्यां परब्रह्मरूपां
भजे रेणुकां सर्वलौकैकवेद्याम् ॥ १॥
सदाचारसद्भक्तिबोधादिभिर्या
गुरोरङ्घ्रिशुश्रूषयां मुख्यवृत्त्या ।
सुवेद्या सुलभ्या परानन्दपूर्णा
भजे रेणुकां तां विमोहप्रशान्त्यै ॥ २॥
श्रुतिर्नेतिनेतीति सर्वं निरस्य
वदत्येकमाद्यं विभुं चित्सुखं यत् ।
तदेवावशिष्टं स्वरूपं विशुद्धं
भजे रेणुकां तां सदा मृत्युहीनाम् ॥ ३॥
यदानन्दसिन्धौ निमग्नो न पश्येद्-
अहो कर्मजालं फलं वा तदीयम…bottom of page
