top of page

आर्याम्बिकाशङ्करशारदास्तोत्रम् (शिवाभिनवनृसिंहभारतीविरचितम्) | AryambikashankaraSharadastotram

र्याम्बिकाशङ्करशारदा स्तोत्रम् (कालटिक्षेत्रे)

भक्तानशोकान्विदधामि शीघ्र-
     मिति प्रबोधाय ततेर्जनानाम् ।
अशोकमूले विदधाति मोदा-
     त्समाधिमार्या जगदार्यमाता ॥ १॥

काषायशुक्लाम्बरसंवृताभ्यां
     काङ्क्षाधिकेष्टप्रदपूजनाभ्याम् ।
कायप्रभाधूतसुधाकराभ्यां
     नमो नमः शङ्करशारदाभ्याम् ॥ २॥

आर्याम्बिकाशङ्करशारदाभ्यो
     निजाङ्गशोभाजितचन्द्रिकाभ्यः ।
दिगन्तसंव्याप्तयशच्छटाभ्यो
     नमोऽस्तु मेधाप्रतिभाप्रदाभ्यः ॥ ३॥

आर्याम्बिकाशङ्करशारदाभ्यः
     प्रपन्नसंरक्षणदीक्षिताभ्यः ।
सम्पूरितानन्दमनोहराभ्यो
     नमोऽस्तु निर्व्याजदयातनुभ्यः ॥ ४॥

आर्याम्बिकाशङ्करशारदाभ्यः
     पूर्णातटावासकृतादराभ्यः ।
कारुण्यसम्पूरितमानसाभ्यो
     नमोऽस्तु कल्याणगुणालयेभ्यः ॥ ५॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं आर्याम्बिकाशङ्करशारदास्तोत्रं सम्पूर्णम् ।

bottom of page