top of page

गायत्रीसरस्वतीस्तोत्रम् (काश्यपकृतं स्कन्दपुराणान्तर्गतम्) | Kashyapa krritam Gayatri sarasvati stotram

काश्यपकृतं गायत्रीसरस्वतीस्तोत्रम् 

काश्यप उवाच ।
चतुराननगेहिन्यौ जगद्धात्र्यौ नमाम्यहम् ।
विद्यास्वरूपे गायत्री-सरस्वत्यौ शुभे उभे ॥ ९९॥

सृष्टिस्थित्यन्तकारिण्यौ जगतो वेदमातरौ ।
हव्यकव्यस्वरूपे च चन्द्रादित्यविलोचने ॥ १.४१.१००॥

सर्वदेवाधिपे वाणी-गायत्र्यौ सततं भजे ।
गिरिजा कमला चापि युवामेव जगद्धिते ॥ १॥

युष्मद्दर्शनमात्रेण जगत्सृष्ट्यादिकल्पनम् ।
युष्मन्निमेषात्सततं जगतां प्रलयो भवेत् ॥ २॥

उन्मेषात्सृष्टिरभवद्भोगायत्रि-सरस्वति ।
युवयोर्दर्शनादद्य कृतार्थोऽभवमाशु वै ॥ ३॥

मामद्य पातकान्मुक्तं स्नानात्तीर्थ द्वयेऽत्र तु ।
स्वीकुर्वन्तु मुनिश्रेष्ठा ब्राह्मणा बान्धवास्तथा…
bottom of page