top of page
गीर्ललिताम्बिकास्तुतिः (शिवाभिनवनृसिंहभारतीविरचिता) | Girlalitambika stuti
गीर्ललिताम्बिकास्तुतिः
(श्र ीशारदागौरीसहोत्सवकाले)
कञ्जाक्षमुख्यामर पूजिताभ्यां
निजाश्रिताशेषवरप्रदाभ्याम् ।
शृङ्गाद्रिकाञ्चीपुरवासिनीभ्यां
नमो नमो गीर्ललिताम्बिकाभ्याम् ॥ १॥
एकान्तपूजापरितुष्टहृद्भ्या-
मेकाक्षरीशीलनलब्धपद्भ्याम् ।
विधीशचित्ताब्जरविप्रभाभ्यां
नमो नमो गीर्ललिताम्बिकाभ्याम् ॥ २॥
ईहाम्बुधेर्बाडवभारभृद्भ्या-
मीकारयुङ्मन्त्रविबोधिताभ्याम् ।
अजास्यशम्भ्वङ्कविभूषणाभ्यां
नमो नमो गीर्ललिताम्बिकाभ्याम् ॥ ३॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीगीर्ललिताम्बिकास्तुतिः समाप्ता ।