top of page
जिनवाक्स्तुतिः | Jinavak stutih
श्रीजिनवाक्स्तुतिः
श्रीमदर्हद्वाण्यै नमः ।
सर्वज्ञवाणी जयतात्सर्व भाषामयी शुभा ।
पञ्चत्रिंशद्रुणोपेता मनुपूर्वस्वरूपिणी ॥ १॥
दयामय्यमृतमयी वाग्देवी श्रुतदेवता ।
संसृष्टिविगमभ्रौव्यदर्शिका भुवनेश्वरी ॥ २॥
ब्रह्मबीजध्वनिमयी श्रीमती वागभवात्मिका ।
ज्ञानदर्शनचारित्ररत्नत्रितययदायिका ॥ ३॥
अर्हद्वकक्त्राब्जसम्भूता भव्यकैरवचन्दिका !
नयप्रमाणगम्भीरा नवतत्वमान्विता ॥ ४॥
वाग्वादिनी भगवत्ती कुमतिध्वंसकारिणी ।
स्याद्वादिहृदयाम्भोजस्थायिनी मातृकामयी ॥ ५॥
नित्या सरस्वती सत्या ज्योतीरूपा जगद्धिता !
वागीश्वरी सिद्धिदात्री सिद्धबीजमयी परा ॥ ६॥
परमैश्वर्यसहिता गणभृद्गुम्फिता श्रुते ।
सिद्धान्तार्थप्रदाऽचिन्त्याऽनन्तशक्तिश्र सारदा ॥ ७॥
स्याद्वादवादिनी श्रेष्ठा तारिणी…