top of page

नृसिंहसरस्वतिस्तोत्रम् (श्रीधरस्वामीविरचितम्) | Nruisingh Mahasarasvati stotram

श्रीनृसिंहसरस्वतिस्तोत्रम् 
(शार्दूलविक्रीडितवृत्तम्)
सर्वप्राणिशुभात्मकं श्रुतिनुतं दिव्यं पदं पावनं
      अज्ञानान्धदृगार्तमूढजनताभास्वत्प्रदीपाननम् ।
भक्तानन्तशुभेप्सितार्थफलदं राराजमानं गुरुं
      भूमानन्दचिदम्बुधिं यतिवरं वन्दे नृसिंहं शिवम् ॥ १॥

ब्रह्माविष्णुमहेशरूपममलं श्रीदत्तनामाङ्कितं
      सर्वप्राणिविजीवनं निरवधिं सर्वान्तरज्योतिषम् ।
स्मृत्यादिश्रुतियुक्तिभिः परिचितं स्वानन्दसूर्यं गुरुं
      भूमानन्दचिदम्बुधिं यतिवरं वन्दे नृसिंहं शिवम् ॥ २॥

संसाराम्बुधिमज्जनार्दितनरत्राणक्रियातत्परं
      मायौद्धत्यविलापकामृतगिरं सर्वज्ञमीशं गुरुम् ।
मायासृष्टिविकारशून्यममलं ब्रह्माभयं शाश्वतं
      भूमानन्दचिदम्बुधिं यतिवरं वन्दे नृसिंहं शिवम् ॥ ३॥

नानाचित्रचरित्रदिव्यकुसुमामोदान्न्विताङ्गप्रभुं
      नानाभक्तगणालिसेवितपदद्वन्द्वाम्बुजं निर्मलम् ।
सर्वप्र…
bottom of page