top of page

पीताम्बररत्नावलीस्तोत्रम् | Pitambara ratnavali stotram

श्रीपीताम्बरारत्नावलीस्तोत्रम् 

श्रीगणेशाय नमः ॥ श्रीपीताम्बरायै नमः ।

ओङ्कारद्वयसम्पुटान्तरपुटं मायास्थिराद्वन्द्वितं
तन्मध्ये बगलामुखीति विमलं सम्बोधनं सर्वं च ।
दुष्टानामथ वाचमाशु च मुखं सस्तम्भयेत्यक्षरं
जिह्वां कीलय कीलयेति च लिखेद्बुद्धि तथा नाशय ॥ १॥

ब्रह्मास्त्रं सकलार्थसिद्धिजनकं षट्त्रिंशदर्णात्मक-
म्प्रोक्तं पद्मभुवां हिताय जगतां यन्नारदाग्रे पुरा ।
जीवन्मुक्तपदे विभान्ति सुधियो येषां मुखे भासते
निर्द्वन्द्वामृतसागरेन्दुकिरणाहाराश्चकोरास्तु ते  ॥ २॥

ओमित्यादिस्वरूपं जपति तव शिवे शब्दतन्मात्रगर्भा-
वाचो यस्मात् परार्थप्रकटितपटवो वर्णरूपा निरीयु…
bottom of page