top of page
भवसोदर्यष्टकम् (शिवाभिनवनृसिंहभारतीविरचितम्) | Bhavasodaryashtakam
श्रीभवसोदर्यष्टकम्
भजतां कल्पलतिका भवभीतिविभञ्जनी ।
भ्रमराभकचा भूयाद्भव्याय भवसोदरी ॥ १॥
करनिर्जितपाथोजा शरदभ्रनिभाम्बरा ।
वरदानरता भूयाद्भव्याय भवसोदरी ॥ २॥
काम्या पयोजजनुषा नम्या सुरवरैर्मुहुः ।
रभ्याब्जवसतिर्भूयाद्भव्याय भवसोदरी ॥ ३॥
कृष्णादिसुरसंसेव्या कृतान्तभयनाशिनी ।
कृपार्द्रहृदया भूयाद्भव्याय भवसोदरी ॥ ४॥
मेनकादिसमाराध्या शौनकादिमुनिस्तुता ।
कनकाभतनुर्भूयाद्भव्याय भवसोदरी ॥ ५॥
वरदा पदनम्रेभ्यः पारदा भववारिधेः ।
नीरदाभकचा भूयाद्भव्याय भवसोदरी ॥ ६॥
विनताघहारा शीघ्रं विनतातनयार्चिता ।
पीनतायुक्कुचा भूयाद्भव्याय भवसोदरी ॥ ७॥
वीणालसतपाणिपद्मा काणादमुखशास्त्रदा ।
एणाङ्कशिशुभृद्भूयाद्भव्याय…bottom of page
