top of page
भारतीस्तवनम् अथवा सरस्वतीस्तोत्रम् (जानीमेघेनविरचितम्) | bharati stavanam
भारतीस्तवनम् अथवा सरस्वतीस्तोत्रम्
जानीमेघेन लिखितम्
श्री शारदायै नमः ।
अन्तः कुण्डलिनिप्रसुप्तभुजङ्गाकारस्फुरद्विग्रहां
शक्तिं कुण्डलिनीं विधाय मनसा हुङ्कारदण्डाहताम् ।
षट्चक्राणि विभिद्य सद्य मनसां प्रद्योतनद्योतनीं
लीनां ब्रह्मपदे शिवेन सहितामेकत्र लीनां स्तुमः ॥ १॥
कन्दात्कुण्डलिनि ! त्वदीयवपुषा निर्गत्य तन्तुत्विषा
किश्चिच्चुम्बितमम्बुजं शतदलं तद्ब्रह्मरन्ध्राद्धः ।
यश्चन्द्रद्युति ! चिन्तयत्यविरतं भूयोऽत्र भूमण्डले
तन्मन्ये कविचक्रवत्तिपदवीच्छत्रचूछलाद्वल्गति ॥ २॥
यस्त्वद्बकत्रमृगाङ्कमण्डलमिलत्कान्तिप्रतानोच्छलत
चञ्चच्चन्द्रकचकऋचित्रितककुप्कन्याकुलं ध्यायति ।
वाणी वाणिविचित्रभङ्गुरपदप्रागल्भयशृङ्गारिणी
नृत्यत्युन्मदनर्त्तकीव सरसं त्वद्बत्ररङ्गाङ्गणे ॥ ३॥
देवि ! त्वत्पदचन्द्रकान्तकरकश्चयोतत्सुधानिर्झर-
स्नानानन्दतरङ्गितः पिबति यः…bottom of page
