top of page
मच्चित्ते सन्निधिं कुरु (विजयन् पट्टाम्बी रचितम्) | Machchitte Sannidhim kuru
मच्चित्ते सन्निधिं कुरु
सरस्वत ि नमस्तुभ्यं सर्वपापविनाशिके ।
शारदे मायिके देवि ! मच्चित्ते सन्निधिं कुरु ॥ १॥
मातृरूपेण भूतेषु सततं संस्थिता हृदि ।
सर्वेषां सौख्यलाभाय देवि तुभ्यं नमो नमः ॥ २॥
पद्मनाभप्रिये देवि पद्मपीठसुसंस्थिते ।
पद्मगन्धेन सम्पन्ने पद्माक्षि ! पाहि मां सदा ॥ ३॥
शुभ्रवस्त्रप्रिये देवि रत्नहारविभूषिते ।
शरच्चन्द्रोज्वले धन्ये चन्द्रिकाधवलप्रभे ॥ ४॥
कमण्डलुमक्षमालाञ्च धारयन्ती करेषु या ।
सा मे…bottom of page
