top of page

महासरस्वतीसहस्रनामस्तोत्रम् २ सरस्वतीसहस्रनामस्तोत्रम् २ (ह्रीं ऐं ह्रीं महावाणी) | Maha sarasvati sahasranama stotram 2

सरस्वती अथवा महासरस्वतीसहस्रनामस्तोत्रम् 
देव्युवाच ।
भगवन् देवदेवेश शरणागतवत्सल ।
वागेश्या नामसाहस्रां कथयस्वानुकम्पया ॥ १॥

भैरव उवाच ।
श‍ृणु देवि प्रवक्ष्यामि नामसाहस्रामुत्तमम् ।
प्रकाश्यं दुर्लभं लोके दुःखदारिद्र्यनाशनम् ॥ २॥

महापातककोटीनां परमैश्वर्यदायकम् ।
सर्वागमरहस्याढ्यं देवानामपि दुर्लभम् ॥ ३॥

समस्तशोकशमनं मूलविद्यामयं परम् ।
सर्वमन्त्रमयं दिव्यं भोगमोक्षफलप्रदम् ॥ ४॥

देवीसरस्वतीनामसहस्रं पापनाशनम् ।

अस्य श्रीसरस्वतीसहस्रनामस्तोत्रस्य श्रीकण्वऋषिः विराट् छन्दः
श्रीसरस्वती देवता ॐ बीजं ह्रीं शक्तिः ऐं कीलकं
श्रीभोगापवर्गसिद्ध्यर्थे जपे…
bottom of page