top of page

महासरस्वतीस्तवम् (मार्कण्डेयपुराणान्तर्गतम्) | Maha sarasvati stavam

श्रीमहासरस्वतीस्तवम् 
अश्वतर उवाच -
जगद्धात्रीमहं देवीमारिराधयिषुः शुभाम् ।
स्तोष्ये प्रणम्य शिरसा ब्रह्मयोनिं सरस्वतीम् ॥ १॥

सदसद्देवि ! सत्किञ्चिन्मोक्षवच्चार्थवत्पदम् ।
तत्सर्वं त्वय्यसंयोगं योगवद्देवि ! संस्थितम् ॥ २॥

त्वमक्षरं परं देवि ! यत्र सर्वं प्रतिष्ठितम् ।
अक्षरं परमं देवि ! संस्थितं परमाणुवत् ॥ ३॥

अक्षरं परमं ब्रह्म विश्वञ्चैतत्क्षरात्मकम् ।
दारुण्यवस्थितो वह्निर्भौमाश्च परमाणवः ॥ ४॥

तथा त्वयि स्थितं ब्रह्म जगच्चेदमशेषतः ।
ओङ्काराक्षरसंस्थानं यत्तु…
bottom of page