top of page

मातृपदपङ्कजाष्टकम् (शिवाभिनवनृसिंहभारतीविरचितम्) | Matrripadapankajashtakam

श्रीमातृपदपङ्कजाष्टकम् 
मातस्त्वत्पदपङ्कजं कल्यतां चेतोऽम्बुजे सन्ततं
     मानाथाम्बुजसम्भवाद्रितनयाकान्तैः समाराधितम् ।
वाञ्छापूरणनिर्जितामरमहीरुड्गर्वसर्वस्वकम्
     वाचः सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्रोदरात् ॥ १॥

मातस्त्वत्पदपङ्कजं मुनिमनःकासारवासादरं
     मायामोहमहान्धकारमिहिरं मानातिगप्राभवम् ।
मातङ्गाभिमतिं स्वकीयगमनैर्निर्मूलयत्कौतुका-
     द्वन्देऽमन्दतपःफलाप्यनमनस्तोत्रार्चनाप्रक्रमम् ॥ २॥

मातस्त्वत्पदपङ्कजं प्रणमतामानन्दवारान्निधे
     राकाशारदपूर्णचन्द्रनिकरं कामाहिपक्षीश्वरम् ।
वृन्दं प्राणभृतां स्वनाम वदतामत्यादरात्सत्वरं
     षद्भाषासरिदीश्वरं प्रतिदधत्षाण्मातुरार्च्यं भजे ॥ ३॥

कामं फालतले दुरक्षरततिर्दैवी ममास्तां न भी-
     र्मातस्त्वत्पदपङ्कजोत्थरजसा लुम्पामि तां निश्चितम् ।
मार्कण्डेयमुनिर्यथा भवपदाम्भोजार्चनाप्राभवात्
     कालं तद्वदहं चतुर्मुखमु…
bottom of page