top of page

वाग्वाणीस्तोत्रम् (बृहस्पतिकृतम्) | Vagvani stotram

वाग्वाणीस्तोत्रम् 

सरस्वतीं नमस्यामि चेतनां हृदि संस्थिताम् ।
कण्ठस्थां पद्मयोनिं च ह्रीङ्कारसुप्रियां सदा ॥ १॥

मतिदां वरदां चैव सर्वकामप्रदायिनीम् ।
केशवस्य प्रियां देवीं वीणाहस्तां वरप्रदाम् ॥ २॥

ऐं ह्रीं मन्त्रप्रियां चैव कुमतिध्वंसकारिणीम् ।
स्वप्रकाशां निरालम्बामज्ञानतिमिरापहाम् ॥ ३॥

मोक्षप्रदां सुनित्यां सुवरदां शोधनप्रियाम् ।
आदित्यमण्डले लीनां प्रणमामि जिनप्रियाम् ॥ ४॥

ज्ञानाकारां जगद्दीपां भक्तपाशविनाशिनीम् ।
इति सम्यक् स्तुता देवी वागीशेन महात्मना ॥ ५॥

आत्मानं…
bottom of page