top of page

वाग्वादिनीषट्कम् (शिवाभिनवनृसिंहभारतीविरचितम्) | Vagvadinishatkam

श्रीवाग्वादिनीषट्कम् 
वरदाप्यहेतुकरुणाजन्मावनिरपि पयोजभवजाये ।
किं कुरुषेन कृपां मयि वद वद वाग्वादिनि स्वाहा ॥ १॥

किं वा ममास्ति महती पापततिस्तत्प्रभेदने तरसा ।
किं वा न तेऽस्ति शक्तिर्वद वद वाग्वादिनि स्वाहा ॥ २॥

किं जीवः परमशिवाद्भिन्नोऽभिन्नोऽथ भेदश्च ।
औपाधिकः स्वतो वा वद वदवाग्वादिनि स्वाहा ॥ ३॥

वियदादिकं जगदिदं सर्वं मिथ्याऽथवा सत्यम् ।
मिथ्यात्वधीः कथं स्याद्वद वद वाग्वादिनि स्वाहा ॥…
bottom of page