top of page

वाग्वादिनीसहस्रनामस्तोतोरम् (भविष्योत्तरपुराणान्तर्गतम्) | Vagvadini Sahasranama stotoram

श्रीवाग्वादिनिसहस्रनामस्तोत्रम् 
ॐ श्रीगणेशाय नमः ।
ब्रह्मोवाच -
नन्दिकेश्वर सर्वज्ञ भक्तानुग्रहकारक ।
ऋद्धिसिद्धिप्रदं नॄणां सर्वदोषनिषूदनम् ॥ १॥

सर्वसिद्धिकरं पुण्यं सर्वकामार्थसाधनम् ।
आधिव्याधिहरं केन केन वा मृत्युनाशनम् ।
वक्तुमर्हसि देवेश नन्दिकेश सुरोत्तम ॥ २॥

श्रीनन्दिकेश्वरोवाच -
श‍ृणु ब्रह्मन्प्रवक्ष्यामि गुप्ताद्गुप्ततरं महत् ।
सर्वभक्तहितार्थाय कथिता कमलासन ॥ ३॥

समस्तकलहध्वंसी लोकस्य लोकवल्लभ ।
जलजास्स्थलजाश्चैव वनजा व्योमजास्तथा ॥ ४॥

कृत्रिमा दोषजाश्चापि भ्रान्तभ्रान्तिविनाशनम् ।
अपस्मारग्रहोन्मादजनोन्मत्तपिशाचकाः ॥ ५॥

दुःखप्रणाशनं नित्यं सुखं सम्प्राप्यते…