top of page

वाणीगीतम् (रुद्रयामलान्तर्गतम्) | Vanigitam

वाणीगीतम् 
अथ त्रिसप्ततितमः पटलः
श्रूयतां कोमलाम्भोजस्थितवक्त्रविराजिते ।
अत्यद्भुतं महागीतं श‍ृणोति साधको हि यत् ॥ ७३-१॥

ध्वनिरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः ।
तन्मनो विलयं याति ध्वनिषु ज्ञानकोटिषु ॥ ७३-२॥

तद् ध्वनिज्ञानसंज्ञानं श‍ृण्वन्ति योगिनो जनाः ॥ ७३-३॥

परमगुणगभीरे धीरनीरे शरीरे
     भवनवभवकान्तौ संप्रशात्मा नितान्तम् ।
विमलमधुरवाक्यालङ्कृतज्ञानसिन्धौ
     सकलवचनरत्नं स्थापयामास वाणी ॥ ७३-४॥

ॐ तुण्डोग्रस्थिरवचनगा मोहयञ्जीववर्णं
     शङ्कातङ्कारहितचरिता मोहिता ज्ञानतन्द्रे ।
सालङ्कारा खरतरकरा वाक्यमालां वहन्ती
…