top of page

वाणीपाण्यवलम्बस्तुतिः (शिवाभिनवनृसिंहभारतीविरचिता) | Vanipanyavalamba stutih

श्रीवाणीपाण्यवलम्बस्तुतिः 
जाड्यवारिधिनिमग्नसुबुद्धेर्जातरूपसदृशच्छविकाये ।
वासवादिदिविषत्प्रवरेड्ये वाणि देहि मम पाण्यवलम्बम् ॥ १॥

पाणिनिर्जितसरोरुहगर्वे पारदे विविधदुःखपयोधेः ।
वासनाविरहितैर्लघुलभ्ये वाणि देहि मम पाण्यवलम्बम् ॥ २॥

श‍ृङ्गशैलशिखरादृतवासेऽनङ्गगर्वहरशम्भुसगर्भ्ये ।
तुङ्गमङ्गलनिदानकटाक्षे वाणि देहि मम पाण्यवलम्बम् ॥ ३॥

शारदाभ्रसदृशाम्बरवीते नारदादिमुनिचिन्तितपादे ।
नीलनीरदसदृक्कचभारे वाणि देहि मम पाण्यवलम्बम् ॥ ४॥

यत्पदाम्बुरुहपूजकवक्त्रादाशु निःसरति वागनवद्या ।
स्वर्धुनी हिमगिरेरिव सा त्वं वाणि देहि मम पाण्यवलम्बम् ॥ ५॥

जातुचित्प्रणमतोऽपि पदाब्जे देवराजसदृशान्प्रकरोषि ।
यत्तदम्ब चरणौ तव…
bottom of page