top of page

वाणीप्रश्नमालास्तवः (शिवाभिनवनृसिंहभारतीविरचितः) | Vani prashnamala stavah

श्रीवाणीप्रश्नमालास्तवः 
(जैत्रयात्नामधिकृत्य श्रीवाण्याज्ञानन्तरं)
किं नाहं पुत्रस्तव मातुः सचराचरस्य जगतोऽस्य ।
किं मां दूरीकुरुषे देवि गिरां ब्रूहि कारणं तत्र ॥ १॥

किं चाहुरार्यपादास्त्वद्भक्ता मद्गुरूत्तमाः पूर्वम् ।
औरसतनयं मां तव कस्माद्दूरीकरोषि वद वाणि ॥ २॥

आनीय दूरतो मां मातस्त्वत्पादसविधमतिकृपया ।
परिपाल्य च सुचिरं मां कस्माद्दूरीकरोषि वद वाणि ॥ ३॥

अतिपरिचयादवज्ञा प्रभवेत्पुत्रेषु किं सवित्रीणाम् ।
नहि सा क्वचिदपि दृष्टा कस्माद्दूरीकरोषि वद…
bottom of page