top of page
वाणीवन्दना | Vani vandana
वाणीवन्दना
वीणानिनादिनि देवि मातः शारदे शुभदे शुभे
सौख्यप्रदायिनि बुद्धिदात्रि स्नेहदे सुखदे प्रभे ।
हे ज्ञानदे वरदे प्रिये विद्याविभाविभुवल्लभे
साहित्यवारिधिमञ्जने मतिदे शिवे मतिदे हि मे ॥ १॥
अज्ञाननाशिनि भव्यभाषाभाषिणि प्रबलेऽबले
विद्याविलासिनि शुभ्रवस्त्रो शास्त्रासारसुसारिणि ।
कर्त्तव्यकर्मविभाविनि ध्रुवधर्मकर्मविबोधिनि
मातः सरस्वति पाहि मां शरणगतं शरणप्रदे ॥ २॥
धर्मार्थचिन्तनसंरते कतिकलाकलितेश्वरि
सङ्गीतगीतिसुगायिनि प्रतिभाप्रदानपरायणे ।
हंसासने सुविराजिते सकलाश्रये जनमोददे
मातः सरस्वति पाहि मां शरणागतं शरणप्रदे ॥ ३॥
संसारबन्धनमुक्तिदे युक्तिप्रदे…