top of page

वाणीशरणागतिस्तोत्रम् (शिवाभिनवनृसिंहभारतीविरचितम्) | Vani sharanagati stotram

श्रीवाणीशरणागतिस्तोत्रम् 
वेणीं सितेतरसमीरणभोजितुल्यां
     वाणीं च केकिकुलगर्वहरां वहन्तीम् ।
श्रोणीं गिरिस्मयविभेदचणां दधानां
     वाणीमनन्यशरणः शरणं प्रपद्ये ॥ १॥

वाचः प्रयत्नमनपेक्ष्य मुखारविन्दा-
     द्वाताहताब्धिलहरीमदहारदक्षाः ।
वादेषु यत्करुणया प्रगलन्ति तां त्वां
     वाणीमनन्यशरणः शरणं प्रपद्ये ॥ २॥

राकाशशाङ्कसदृशाननपङ्कजातां
     शोकापहारचतुराङ्घ्रिसरोजपूजाम् ।
पाकारिमुख्यदिविषत्प्रवरेड्यमानां
     वाणीमनन्यशरणः शरणं प्रपद्ये ॥ ३॥

बालोडुपप्रविलसत्कचमध्यभागां
     नीलोत्पलप्रतिभटाक्षिविराजमानाम् ।
कालोन्मिषत्किसलयारुणपादपद्मां
     वाणीमनन्यशरणः शरणं प्रपद्ये ॥ ४॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीवाणीशरणागतिस्तोत्रं सम्पूर्णम् ।

bottom of page