top of page

विधिमानसहंसास्तोत्रम् (शिवाभिनवनृसिंहभारतीविरचितम्) | vidhiman sahamsa stotram

श्रीविधिमानसहंसास्तोत्रम् 
पापिषु प्रथमतो गणनीयं पुण्यवज्जनसुदूरगतं माम् ।
नागराजमिव पङ्कजचक्षुर्वाणि पाहि विधिमानसहंसे ॥ १॥

मांसरक्तमलपूर्णशरीरे पूतिगन्धनिलयेऽस्थिरवर्ये ।
आत्मबुद्धिमचलां दधतं मां वाणि पाहि विधिमानसहंसे ॥ २॥

मोहलोभमुखरोगविशीर्णं जन्ममृत्युभयतप्तहृदब्जम् ।
शान्तिदान्तिमुखमातृविहीनं वाणि पाहि विधिमानसहंसे ॥ ३॥

वेदशीर्षपरिशीलनशून्यं पादपद्मनमनेऽप्यलसं ते ।
पाणिपङ्कजलसच्छुकबाले वाणि पाहि विधिमानसहंसे ॥ ४॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीविधिमानसहंसास्तोत्रं सम्पूर्णम् ।

bottom of page