top of page
शारदाकुसुमाञ्जलिः (वासुदेवन् एलयथेन विरचिता) | sharada kusumanjalih
श्रीशारदाकुसुमाञ्जलिः
श्रीरामकृष्णगुरुदेवनिबद्धभावा ।
श्रीरामकृष्णपरिपूजितपादपद्मा ।
श्रीदक्षिणेश्वरगता भवतारिणी सा
श्रीशारदा विजयते जगदेकमाता ॥ १॥
श्वेताम्बरावृतविशुद्धमनोज्ञगात्रीं
शान्तप्रसन्नवदनां करुणार्द्रनेत्राम् ।
ध्यायामि तां हृदयपद्मसुखासनस्थां
श्रीशारदां परमहंसमहाविभूतिम् ॥ २॥
अम्ब प्रसीद भुवनेश्वरि मातृदेवि,
त्वामप्रमेयमहिमार्जिताविश्वपूजाम् ।
क्षान्त्याधरीकृतधरां सरळान्तरङ्गां
निश्शेषदुःखशमनीं शरणं प्रपद्ये ॥ ३॥
विद्याविवादजटिलत्वविहीनभावा
स्वात्मानुभूतिमधुरा सततं प्रसन्ना ।
आनन्दरूपिणि पदाब्जसमाश्रितानां
शान्तिप्रदा विजयसे लळिताम्बिके त्वम् ॥ ४॥
योगेश्वरेश्वरमहागुरुधर्मपत्नि,
सर्वार्थदे सकलशक्त्यवताररूपे ।
आर्तप्रपन्नपरिप…bottom of page
