top of page

शारदागीतम् १ (कल्याणानि तनोतु) | Sharada gitam

श्रीशारदा गीतम् 
कल्याणानि तनोतु काऽपि तरुणी श‍ृङ्गाद्रिभूषायिता
श्रीमच्छङ्करदेशिकेन्द्रकलितं चक्रं सदाधिष्ठिता ।
दूरस्थामपि पादनम्रजनतां विद्यायुरारोग्य सत्
सन्तत्यादिमनोरथाप्तिसहितां सन्तन्वती सत्वरम् ॥

शारदाम्ब शरदिन्दुनिभानन भासित निखिल दिगन्ते ।
पारदे भवमहाजलराशेः पावयमां विधिकान्ते ॥

दन्तकान्तिजित कुन्दसुमे वरकुन्तल निर्धुतभृङ्गे ।
शान्तचित्तजन सन्तत चिन्तित कोटिचन्द्रसदृशाङ्गे ॥

पादनम्रजन वाञ्छितपूरण निर्जित नन्दनवल्लिके ।
मादनेष्वसन गर्व निबर्हण दक्ष मनोहर चिल्लिके ॥

ऋष्यश‍ृङ्गपुर वासविलोले वश्ययन्त्र सदृशास्ये ।
पश्वदङ्घ्रि शुकदेवहूतिसुत कश्यपादि समुपास्ये…
bottom of page