top of page

शारदागीतम् २ शारदे करुणानिधे (चन्द्रशेखरभारतीविरचितम् शारदा शारदांभोज) | sharade karunanidhe

शारदे करुणानिधे 
शारदागीतम् -

शारदा शारदांभोज वदना वदनाम्बुजे ।
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ॥

शारदे करुणानिधे
     सकलानवाम्ब सदा जनान् ।
चारणादिमगीत-वैभव-
     पूरिताखिल-दिक्तते ॥

भर्म-भूषण-भूषिते
     वररत्नमौलि-विराजिते ।
शर्मदायिनि कर्ममोचिनि
     निर्मलं कुरु मानसम् ॥

हस्तसन्धृतपुस्तकाक्षपटी-
     सुधाघटमुद्रिके ।
कस्तवास्ति हि वर्णने
     चतुरो नरः खचरोऽथवा ॥

रागः - हमीर् कल्याण, तालः - चापु

bottom of page