top of page

शारदाचतुःषष्टिः (शिवाभिनवनृसिंहभारतीविरचिता) | sharada chatuh shashtih

श्रीशारदाचतुःषष्टिः 
अद्राक्षमव्याजकृपामपारां श्रीशारदाम्बाभिधया लसन्तीम् ।
श्रीश‍ृङ्गपुर्यामधिचक्रमध्यमितः परं किं करणीयमस्ति ॥ १॥

अद्राक्षमम्भोजभवस्य पुण्यपरम्परामाश्रितदिव्यमूर्तिम् ।
मालासुधाकुम्भलसत्कराब्जामितः परं किं करणीयमस्ति ॥ २॥

अद्राक्षमानन्दपयोधिराकासुधाकराणामिव रम्यपङ्क्तिम् ।
विबोधमुद्रावरपुस्तकाढ्यामितः परं किं करणीयमस्ति ॥ ३॥

अद्राक्षमुत्तुङ्गतरङ्गतुङ्गातटान्तराजद्वरमन्दिरस्थाम् ।
शशाङ्कबालोज्ज्वलदिव्यमौलिमितः परं किं करणीयमस्ति ॥ ४॥

अद्राक्षमर्धेन्दुसमानफालां लावण्यसर्वस्वपयोधिवेलाम् ।
कीलालसम्भूतसमुत्थलोलामितः परं किं करणीयमस्ति ॥ ५॥

अद्राक्षमिन्दीवरतुल्यनेत्रां भ्रूवल्लिकानिर्जितकामचापाम् ।
तुङ्गानदीतीरविहारशीलामितः परं किं करणीयमस्ति ॥ ६॥

अद्राक्षमक्ष्णोर्जनिमर्थयुक्तां प्रकुर्वतीं स्वाङ्घ्रिनिरीक्षणेन ।
पयःप्रभूतप्रभवस्य जायामितः परं किं…
bottom of page