top of page

शारदादशकम् (शिवाभिनवनृसिंहभारतीविरचितम्) | sharada dashakam

श्रीशारदादशकम् 

(श्रीकालटिक्षेत्रे)
करवाणि वाणि किं वा जगति प्रचयाय धर्ममार्गस्य ।
कथयाशु तत्करोम्यहमहर्निशं तत्र मा कृथा विशयम् ॥ १॥

गणनां विधाय मत्कृतपापानां किं धृताक्षमालिकया ।
तान्ताद्याप्यसमाप्तेर्निश्चलतां पाणिपङ्कजे धत्से ॥ २॥

विविधाशया मदीयं निकटं दूराज्जनाः समायान्ति ।
तेषां तस्याः कथमिव पूरणमहमम्ब सत्वरं कुर्याम् ॥ ३॥

गतिजितमरालगर्वां मतिदानधुरन्धरां प्रणम्रेभ्यः ।
यतिनाथसेवितपदामतिभक्त्या नौमि शारदां सदयाम् ॥ ४॥

जगदम्बां नगतनुजाधवसहजां जातरूपतनुवल्लीम् ।
नीलेन्दीवरनयनां बालेन्दुकचां नमामि…
bottom of page