top of page
शारदापञ्चकम् | sharada panchakam
श्रीशारदापञ्चकम्
विश्वात्मिके! वन्दितपादपद्मे! हंसाऽऽसनेऽज्ञानचयं ध ुनाने! ।
गीताञ्चिते! हारयुते! सवीणे! श्रीशारदे! मत्प्रणतिं गृहाण ॥ १॥
विद्याधनोद्भ्राजितभूरिभारे! प्रफुल्लिते! मञ्जुलकुन्दहासे! ।
काव्यामृताम्भोधिसुभव्यवासे! भद्रं निदध्या ननु सेवकानाम् ॥ २॥
मातस्त्वदीये नलिनाङ्घ्रियुग्मे नित्यं वयं दीनमुखाः स्तुवन्तः! ।
शातप्रिये! दुःखमवेक्ष्य गाढं नाऽस्नं कथं ते सहसाऽऽयताक्ष्णोः ॥ ३॥
देशान्तरादत्र समागतानां बन्धून् विना हा! हतभाग्यकानाम् ।
मातस्तवावाप्तिकृतव्रतानां दृष्ट्वा दशां नः करुणा कथं न ? ॥…bottom of page
