top of page

शारदापञ्चरत्नस्तुतिः | sharada pancha ratna stutih

शारदापञ्चरत्नस्तुतिः 

श्रीमच्छङ्करदेशिकेन्द्ररचिते तुङ्गापगातीरगे
श‍ृङ्गेर्याख्यपुरस्थिते सुविमले सन्मौनिसंसेविते ।
पीठे तां रविकोटिदीप्तिसहितां राराज्यमानां शिवां
राजीवाक्षमुखामरार्चितपदां वन्दे सदा शारदाम् ॥ १॥

पादानम्रजनार्तिनाशनिपुणां नादानुसन्धायिनीं
वेदान्तप्रतिपाद्यमानविभवां वादादिशक्तिप्रदाम् ।
विद्याकल्पलतां चतुर्मुखमुखाम्भोजातसूर्यायितां
विद्यातीर्थगुरूत्तमैरहरहः संसेव्यमानां भजे ॥ २॥

ईषत्स्मेरमुखाम्बुजां कुचभरानम्रां त्रिलोकावनीं
दैत्यव्रातविनाशिनीं कचजितप्रावृट्पयोदां शिवम् ।
संसारार्णवमग्नदीनजनतासन्तापसन्नाशिनीं
वन्दे तां शुभदामनन्यशरणः स्वान्ते सदा शारदाम् ॥ ३॥

कारुण्यामृतवारिराशिमनिशं केयूरहारैर्वृतां
कामारेस्सहजां कराब्जविलसत्कीरां कुबेरार्चिताम् ।
कामक्रोधमुखारिवर्गशमनीं कैवल्यसम्पत्प्रदां
कञ्जोद्भूतमनःप्रियां हृदि भजे भक्त्या सदा शारदाम् ॥ ४॥

नित्यानित्यविवेकदाननिपुणां स्तुत्यां मुकुन्दादिभिः
यत्याकारशशाङ्कमौलिविनुतां सत्यापितस्वाश्रवाम्…
bottom of page