top of page

शारदाभुजङ्गप्रयातस्तवनम् | sharada bhujangaprayata stavanam

श्रीशारदाभुजङ्गप्रयातस्तवनम् 

॥ दक्षिणाम्नाय श्रिङ्गेरी श्रीशारदापीठाधिपति
शङ्कराचार्य जगद्गुरुवर्यो श्री सच्चिदानन्द शिवाभिनव
नृसिंहभारती महास्वामिभिः विरचितम् ॥

ॐ स्मितोद्धूतराका निशानायकायै कपोलप्रभानिर्जितादर्शकायै ।
स्वनेत्रावधूताङ्गजातध्वजायै सरोजोत्थ सत्यै नमः शारदायै ॥

भवाम्बोधिपारं न यन्त्यै स्वभक्तान् विनाऽयासलेशं कृपानौकयैव ।
भवाम्भोजनेत्रादि सम्सेवितायै अजस्रं हि कुर्मो नमः शारदायै ॥

सुधाकुम्भमुद्राविराजत्करायै व्यथाशून्यचित्तैः सदा सेवितायै ।
क्रुधाकामलोभादिनिर्वापणायै विधातृप्रियायै नमः शारदायै ॥

नतेष्टप्रदानाय भूमिं गतायै गतेनाच्छबर्हाभिमानं हरंत्यै ।
स्मितेनेन्दु दर्पं च तोषां…
bottom of page