top of page
शारदाभुजङ्गप्रयातस्तुतिः (शिवाभिनवनृसिंहभारतीविरचिता) | sharada bhujanga prayatastutih
श्रीशारदाभुजङ्गप्रयातस्तुतिः
(कालटीक्षेत्रे)
स्मितोद्धूतराकानिशानायकायै
कपोलप्रभानिर्जितादर्शकायै ।
स्वनेत्रावधूताङ्गजातध्वजायै
सरोजोत्थसत्यै नमः शारदायै ॥ १॥
भवाम्भोधिपारं नयन्त्यै स्वभक्ता-
न्विनायासलेशं कृपानौकयैव ।
भवाम्भोजनेत्रादिसंसेवितायै
अजस्रं हि कुर्मो नमः शारदायै ॥ २॥
सुधाकुम्भमुद्राविराजत्करायै
व्यथाशून्यचित्तैः सदा सेवितायै ।
क्रुधाकामलोभादिनिर्वापणायै
विधातृप्रियायै नमः शारदायै ॥ ३॥
नतेष्टप्रदानाय भूमिं गतायै
गतेनाच्छबर्हाभिमानं हरन्त्यै ।
स्मितेनेन्दुदर्पं च तोषं व्रजन्त्यै
सुतेनेव नम्रैर्नमः शारदायै ॥ ४॥
नतालीयदारिद्र्यदुःखापहन्त्र्यै
तथा भीतिभूतादिबाधाहरायै ।
फणीन्द्राभवेण्यै गिरीन्द्…bottom of page
