top of page

शारदाभुजङ्गप्रयाताष्टकम् (शंकराचार्यविरचितम्) | Sharada bhujanga prayat ashtakam

शारदाभुजङ्गप्रयाताष्टकम् 

सुवक्षोजकुम्भां सुधापूर्णकुंभां
     प्रसादावलम्बां प्रपुण्यावलम्बाम् ।
सदास्येन्दुबिम्बां सदानोष्ठबिम्बां
     भजे शारदाम्बामजस्रं मदम्बाम् ॥ १॥

कटाक्षे दयार्द्रां करे ज्ञानमुद्रां
     कलाभिर्विनिद्रां कलापैः सुभद्राम् ।
पुरस्त्रीं विनिद्रां पुरस्तुङ्गभद्रां
     भजे शारदाम्बामजस्रं मदम्बाम् ॥ २॥

ललामाङ्कफालां लसद्गानलोलां
     स्वभक्तैकपालां यशःश्रीकपोलाम् ।
करे त्वक्षमालां कनत्प्रत्नलोलां
     भजे शारदाम्बामजस्रं मदम्बाम् ॥ ३॥

सुसीमन्तवेणीं दृशा निर्जितैणीं
     रमत्कीरवाणीं नमद्वज्रपाणीम् ।
सुधामन्थरास्यां मुदा चिन्त्यवेणीं
     भजे शारदाम्बामजस्रं …
bottom of page