top of page

शारदामहिम्नस्तवः (शिवाभिनवनृसिंहभारतीविरचिता) | sharada mahimna stavah

श्रीशारदामहिम्नस्तवः 

श‍ृङ्गाद्रिवासाय  विधिप्रियाय कारुण्यवाराम्बुधये नताय ।
विज्ञानदायाखिलभोगदाय श्रीशारदाख्याय नमो महिम्ने ॥ १॥

तुङ्गातटावासकृतादराय भृङ्गालिविद्वेषिकचोज्ज्वलाय ।
अङ्गाधरीभूतमनोज्ञहेम्ने   श‍ृङ्गारसीम्नेऽस्तु नमो महिम्ने  ॥ २॥

वीणालसत्पाणिसरोरुहाय शोणाधरायाखिलभाग्यदाय ।
काणादशास्त्रप्रमुखेषु चण्डप्रज्ञाप्रदायास्तु नमो महिम्ने  ॥ ३॥

चन्द्रप्रभायेशसहोदराय चन्द्रार्भकालङ्कृतमस्तकाय ।
इन्द्रादिदेवोत्तमपूजिताय कारुण्यसान्द्राय नमो महिम्ने ॥ ४॥

इति श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः
विरचितः श्रीशारदामहिम्नस्तवः ।

bottom of page