top of page

शारदाम्बागीतम् (श्रीशारदाम्बां भजे श्रितकल्पवल्लीम्) | sharadamba gitam

शारदाम्बागीतम् 

(सारमतीरागः, खण्डछापुतालः)
श्रीशारदाम्बां भजे श्रितकल्पवल्लीम् ।
कारुण्यवारान्निधिं कलिकल्मषघ्नीम् ॥

इन्द्रादिदेवार्च्यपादाम्बुजातां ईशित्वमुख्याष्टसिद्धिप्रदात्रीम् ।
ऊहापथातीतमाहात्म्ययुक्तां मोहान्धकारापहस्वाभिधानाम् ॥ १॥

श्रीशङ्कराचार्यसंसेविताङ्घ्रिं श्रीश‍ृङ्गगिर्याख्यपुर्यां वसन्तीम् ।
श्रीवाग्विभूत्यादिदानप्रवीणां श्रीभारतीतीर्थहृत्पद्मवासाम् ॥ २॥

bottom of page