top of page

शारदाम्बास्तोत्रमालिका (शिवाभिनवनृसिंहभारतीविरचिता) | sharadamba stotra malika

श्रीशारदाम्बास्तोत्रमालिका 
(श्रीकालटिक्षेत्रे)
आसेतुशीतगिरिमध्यनिवासलोकान्
     स्वस्वाश्रमाद्युचितकर्मनिषक्तचित्तान् ।
श्रीघ्रं विधाय करुणामृतवारिराशे
     श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ १॥

हंसादिमस्करिवरार्चितपादपद्मे
     हंसाग्र्ययाननिरते मुखनिर्जिताब्जे ।
कंसारिमुख्यसुरनायकपूज्यमाने
     श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ २॥

श्वेताम्बुसम्भवनिवासनिषक्तबुद्धे
     शीतांशुराजतमहीधरतुल्यवर्णे ।
वाताम्बुमात्रपरितुष्टजनालिसेव्ये
     श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ३॥

क्रव्यादवैरिमुखदेववरेड्यपादे
     सुव्याहृतिप्रदपदाम्बुजजातुपाते ।
निर्व्याजपूर्णकरुणामृतजन्मभूमे
     श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ४॥

भक्त्यादिगन्धरहितान्गुरुपादपद्मे
     तत्सेवने च सुतरां विनिवृत्तभावान् ।
लोकानवाम्ब परिशुद्धहृदो विधाय
     श्रीशारदाम्ब सितचित्तमिमं कुरुष्व ॥ ५॥

अज्ञातवेदनिचयस्मृतिमुख्यगन्धान्
     कामार्थमात्रपुरुषार्थधियो मनुष्यान् ।…
bottom of page