top of page

शारदाम्बा स्तवनम् | sharadamba stavanam

श्रीशारदाम्बा स्तवनम् 

ॐ पीठे काञ्चनकल्पिते सुरुचिरे रत्नप्रभाभास्वरे
नानालङ्कृतिमण्डिते विलसितां स्मेराननां सुन्दरीम् ।
दीव्यद्रत्नकिरीटकुण्डलधरां शीताम्शुलेखान्विताम्
देवीं शारदनीरदोज्वलरुचिं श्रीशारदाम्बां भजे ॥ १॥

हस्ताग्रे प्रियशारिकां विदधतीं वामेकरे पुस्तकम्
शुभ्रस्फाटिकमक्षसूत्रमपरे हस्ते वहन्तीं च ताम् ।
श्रीश‍ृङ्गाद्रिनिकेतनां सुविमलां शुभ्राम्बरालङ्कृताम्
वन्देऽहं भवतारिणीं भगवतीं भक्तेष्टदां भारतीम् ॥ २॥

आदौ शङ्करदेशिकेन्द्रगुरुणा सम्पूजितां भावये
सेव्यां तस्य परम्परागतमहाश‍ृङ्गाद्रिपीठाधिपैः ।
अद्यापि स्थिरभक्तिभावभरितैः श्रीमद्भिराराधिताम्
विद्यातीर्थयतीश्वरैरभिनवेत्याख्याति पूर्वैः सदा ॥ ३॥

श्रीनाथ त्रिदशाधिनाथ गिरिजानाथादि देवार्चिते
तारानाभसनाथ चारुमकुटे…
bottom of page