top of page

शारदावर्णमालास्तवः (चन्द्रशेकरभारती विरचितम्) | sharada varnamala stavah

श्रीशारदावर्णमालास्तवः 
श्रीशिवापूज्यपादाब्जा श्रीकन्धरसहोदरी ।
श्रीधुतस्फटिका भूयात् श्रियै मे शारदाऽनिशम् ॥ १॥

शारदाभ्रसदृग्वस्त्रां नीलनीरदकुन्तलाम् ।
पारदां दुःखवाराशेः शारदां सततं भजे ॥ २॥

रत्नचित्रितभूषाढ्यां प्रत्नवाक्स्तुतवैभवाम् ।
नूत्नसारस्यदां वाणीं कृत्स्नज्ञानाप्तये स्तुमः ॥ ३॥

दाडिमीबीजरदनां दान्त्यादिगुणदायिनीम् ।
दानधिक्कृतकल्पद्रुं दासोऽहं नौमि शारदाम् ॥ ४॥

यैः सदा पूजिता ध्याता यैषा श‍ृङ्गपुरस्थिता ॥

शारदाम्बा लोकपूज्यास्त एव हि नरोत्तमाः ॥ ५॥

नमत्सुरीकैश्यगन्धलुब्धभ्रमरराजितम् ।
नतेष्टदानसुरभिं वाणीपादाम्बुजं स्तुमः ॥ ६॥

मस्तराजचन्द्रलेखा पुस्तशोभिकराम्बुजा…
bottom of page