top of page
शारदाशतश्लोकीस्तवः (शिवाभिनवनृसिंहभारतीविरचितः) | sharada shat shloki stavah
श्रीशारदाशतश्लोकीस्तवः
करोतु पदविन्यासान्कमलासनकामिनी ।
जिह्वाग्रे मम कारुण्याज्जितचन्द्रायुतप्रभा ॥ १॥
पापेऽपि शारदाम्ब त्वं कृत्वा बहुकृपां मयि ।
गरीयसीं चापि वाञ्छां पूरयाशु कृपानिधे ॥ २॥
बहुभिस्त्वद्वदनाम्बुजमुल्लेखैः स्तोतुमार्यजनहृद्यैः ।
प्रतिभां प्रयच्छ मह्यं करुणाजलधे पयोजभवजाये ॥ ३॥
चम्पकसुमकोरकयुक्चकितमृगीप्रेक्षणेन संयुक्तम् ।
शुककेकिनिनदजुष्टं वनमिव तव भाति वदनाब्जम् ॥ ४॥
नासिकाख्यवरशाखया युतं खञ्जरीटखगयुग्मभूषितम् ।
पक्वबिम्बफलसंयुतं शिवे भाति भूरुह इवाननं तव ॥ ५॥
भक्तकेकिकुलतोषणव्रतं पद्मसम्भवहृदम्बराश्रितम् ।
गद्यपद्यमयवारिसन्ददन्मेघवत्तव मुखं विभाति…