top of page
शारदाषट्कस्तोत्रम् (नृसिंहभारतीस्वामिविरचितम्) | sharadashatka stotram
शारदाषट्कस्तोत्रम्
श्रीगणेशाय न मः ॥
वेदाभ्यासजडोऽपि यत्करसरोजातग्रहात्पद्मभूश्चित्रं
विश्वमिदं तनोति विविधं वीतक्रियं सक्रियम् ।
तां तुङ्गातटवाससक्तहृदयां श्रीचक्रराजालयां
श्रीमच्छङ्करदेशिकेन्द्रविनुतां श्रीशारदाम्बां भजे ॥ १॥
यः कश्चिद्बुद्धिहीनोऽन्यविदितनमनध्यानपूजाविधानः
कुर्याद्यद्यम्ब सेवां तव पदसरसीजातसेवारतस्य ।
चित्रं तस्यास्यमध्यात्प्रसरति कविता वाहिनीवामराणां
सालङ्कारा सुवर्णा सरसपदयुता यत्नलेशं विनैव ॥ २॥
सेवापूजानमनविधयः सन्तु दूरे नितान्तं
कादाचित्का स्मृतिरपि पदाम्भोजयुग्मस्य तेऽम्ब ।
मूकं रङ्कं कलयति सुराचार्यमिन्द्रं च वाचा
लक्ष्म्या लोको न च कलयते तां कलेः किं हि…bottom of page
