top of page
शारदाष्टकम् २ (अनन्तरामेणविरचितम् श्री शारदे चारुरूपे) | Sharadashaaka stotram
श्रीशारदाष्टकस्तोत्रम्
(श्रीशारदाष्टकम्)
श्री शारदे चारुरूपे-
ऋष्यशृङ्गाचलस्थेभजेमातरन्त्वां
श्री शारदे चारुरूपे (श्री शारदे) ॥ ध्रुवपदम् ॥
तुङ्गानदीपुण्यतीरे-तापसानन्दपूरे तपोऽरातिचोरे ।
नित्यं वसन्तीं ज्वलन्तीं- सर्वविद्याधिदात्रीं
विरिञ्चेस्सुपत्नीम् ॥ (श्री शारदे) १॥
श्री शङ्करस्थापितां तां -
शान्तिदान्त्यादि सम्पूर्ण संन्यासि वन्द्याम् ।
सर्वार्थदात्रीं सवित्रीं-
देशिकेन्द्रस्वरूपेण सर्वत्र यान्तीम् ॥ (श्री शारदे) २॥
कारुण्य सम्पूर्ण नेत्रां-
शुभ्रवस्त्रां पवित्रां शरच्चन्द्रवक्त्राम् ।
सद्रत्नभूषाविचित्रां-
योगिवृन्दार्पितानन्दबिल्वादिपत्राम् ॥ (श्री शारदे) ३॥
श्री कुङ्कुमालिप्तगात्रीं-
भक्तवृन्दार्पितस्वीयकल्याणनेत्राम् ।
आविष्कृतानेकशास्त्रां -
अब्जसम्भूतसम्बद्ध माङ्गल्यसूत्राम् ॥ (श्री शारदे)…bottom of page
