top of page
शारदाष्टकम् ३ (सच्चिदानन्द-उडुपवर्यैः विरचितं सकलनिगमसारे वेदवेदान्तवेद्ये) | sharadashtakam 3
श्रीशारदाष्टकम्
सकलनिगमसारे वेदवेदान्तवेद्ये
प्रणतजनमनोज्ञे शृङ्गपूर्वासचित्ते ।
निखिलसुकविगीते शङ्करास्याब्जहंसे
त्वमिह करुणया मां शारदे पाहि नित्यम् ॥ १॥
विधिवदननिवासे चारुचन्द्राभवक्त्रे
सकलविबुधवन्द्ये सर्वलोकैकमान्ये ।
वचसि रुचिरशक्तेर्दानशीले ममाम्ब
त्वमिह करुणया मां शारदे पाहि नित्यम् ॥ २॥
निजशिशुसमवायानक्षरारम्भकार्ये
प्रतिदिनमवलोक्य स्वच्छविद्या ददासि ।
विधिहरिहरमुख्यास्त्वत्प्रसादाज्जयन्ति
त्वमिह करुणया मां शारदे पाहि नित्यम् ॥ ३॥
कनककलशरम्ये दक्षिणाम्नायपीठे
मणिगणयुतहारैर्भूषिता पट्टवस्त्रैः ।
गुरुवरकरपद्मेनार्चिता दिव…bottom of page
