top of page

शारदाष्टकम् ४ (महाकवि कुमारनासन् विरचितं व्याप्यवाङ्मयमिदं जगत्स्थिता) | Sharadashtakam 4

श्रीशारदाष्टकम् 
व्याप्यवाङ्मयमिदं जगत्स्थिता
      व्यातनोतु मम देवताश्रियम् ।
कापिहस्तपरिवादिनीगळत्
      काकळीलयकलाकुतूहला ॥ १॥

सात्विकीगुणविलासचित्रिता
      यात्मनः परमपावनीकला ।
सा शिवानि विदधातु शारदा
      शारदेन्दुकिरणोज्ज्वलाकृतिः ॥ २॥

देवि! नैव मतभेदनिर्गमान्
      दुर्गमाञ्जिगमिषाम्यहं पथः ।
त्वां परां गतिमुपैमि कातरः
      शारदे श्रुतिविशारदार्चिते ॥ ३॥

अम्ब योगिमृगितां पराभिधां
      त्वां विभिन्नपरिणामसुन्दरीम् ।
पुष्कलार्त्थविभवामुपास्महे
      स्फोटदर्शितविचित्रविभ्रमाम् ॥ ४॥

लुप्तरागसरणीस्सुनिश्चिता
      लोकसङ्ग्रहविधौ पटीयसी ।
काचनाम्ब! धिषणाभवन्मयी
      कर्मकौशलजुषा निष…
bottom of page