top of page

शारदास्तवः ३ (शिवाभिनवनृसिंहभारतीविरचितः) | sharada stavah 3

श्रीशारदास्तवः ३ 
(शिष्याशीर्वचनात्मकस्तवाः)
श्रीरामलक्ष्मणाविव सौहार्दं प्राप्य सुस्थिरं सुचिरम् ।
श्रीचामराजपुत्रौ जीयास्तां शारदाम्ब तव कृपया ॥ १॥

भारति सम्पद्भरितौ बुद्‍ध्या चैवातितीक्ष्णया पूर्णौ ।
आयुष्मन्तौ सुखिनौ भूयास्तां चामराजसुकुमारौ ॥ २॥

राज्याभिवृद्धिमतुलां प्रापय्याश्वेभपत्तिवृद्धिं च ।
पालय कमलजजाये चामक्षितिपालवर्यसुकुमारौ ॥ ३॥

गजतुरगवाहनस्थावपि रथमध्येषु सुस्थितौ वाणि ।
संरक्ष सन्ततं बहुकरुणे श्रीचामराजसुकुमारौ ॥ ४॥

देवद्विजगुरुभक्तिं सुदृढां दत्त्वा च विनयसम्पत्तिम् ।
पालय पद्मजमानिनि सततं श्रीचामराजसुकुमारौ ॥ ५॥

गिरिसानुषु…
bottom of page