top of page
शारदास्तवः ४ (आपटीकरविरचिता) | sharada stavah 4
श्रीशारदास्तवः ४
(पृथ्वी)
नमामि धवलांशुकां सरसिजासनां शारदां
नमामि तिमिरापहां सकलबुद्धिदां देवताम् ।
नमाम्यमरपूजितां विविध-गीत-सन्तोषितां
नमामि शरणार्थिनां व्यसननाशिनीं सिद्धिदाम् ॥ १॥
नमामि सरसीरुहासन-विभूषितां सुन्दरीं
करे स्फटिकमालिकां विदधतीं प्रसन्नाननाम् ।
सदाऽध्ययनतत्परान् सततभक्तिसेवारतान्
जनानवसि शारदे सकल सौख्यदे देवते ॥ २॥
न राज्यमपि कामये न च सूखेऽपि मे कामना
न कीर्तिमपि काङ्क्षते मम मनो यशोदायिन…bottom of page
