top of page
शारदास्तवकदम्बम् (शिवाभिनवनृसिंहभारतीविरचितम्) | sharada stava kadambam
श्रीशारदास्तवकदम्बम्
(श्रीकालटि क्षेत्रे)
हेलया रचितचित्रविष्टपां चेलधूतशरदभ्रविभ्रमाम् ।
कालटीपुरनिवासदीक्षितां कालकालसहजां नुमो वयम् ॥ १॥
नास्तिक्यबुद्धिहतमानसवारिजातां-
स्त्यक्तात्मकर्मनिचयान्बहुशो द्विजाद्यान् ।
कृत्तोत्तमाङ्गजततीन्विनिरीक्ष्य दुःख-
वार्धौ निमग्नमिममम्ब सुखे नियुङ्क्ष्व ॥ २॥
ईशोऽस्ति जन्म च विचित्रतरं हि जन्तो-
र्लोकान्तरं च निजकर्मकृतां सुखापम् ।
पापानि पापफलदाश्च तथैव लोका
इत्यम्ब लोकततये वितराशु बुद्धिम् ॥ ३॥
ब्रह्मास्ति सत्यमथ दृश्यमिदं हि मिथ्या
रज्जूरगादिवदतो न हि सौख्यलेशः ।
तस्मादि…bottom of page
