top of page

शारदास्तवनम् सारस्वतमन्त्रगर्भितं (जिनप्रभसूरिविरचितम्) | sharada stavanam mantra garbhitam

सारस्वतमन्त्रगर्भितं श्रीशारदास्तवनम् 

ॐ नमस्त्रिदशवन्दितक्रमे!  सर्वविद्वज्जनपद्मभृङ्गिके! ।
बुद्धिमान्द्यकदलीदलीक्रियाशस्त्रि!  तुभ्यमधिदेवते!  गिराम् ॥ १॥

कुर्वते नभसि शोणशोचिषो भारति!  क्रमनखांशवस्तव ।
नम्रनाकिमुकुटांशुमिश्रिता ऐन्द्रकार्मुकपरम्परामिव ॥ २॥

दन्तह्रीन्दुकमलश्रियो मुखं यैर्व्यलोकि तव देवि!  सादरम् ।
ते विविक्तकवितानिकेतनं के न भारति!  भवन्ति भूतले ? ॥ ३॥

श्रीन्द्रमुख्यविबुधार्चितक्रमां ये श्रयन्ति भवतीं तरीमिव ।
ते जगज्जननि!  जाड्यवारिधिं निस्तरन्ति तरसा रसास्पृशः ॥ ४॥

द्रव्यभावतिमिरापनोदिनीं तावकीनवदनेन्दुचन्द्रिकाम् ।
यस्य लोचनचकोरकद्वयी पीय…
bottom of page