top of page

शारदास्तुतिः १ (शिवाभिनवनृसिंहभारतीविरचिता करोतु कल्याणपरम्परां नः) | sharada stutih 1

श्रीशारदास्तुतिः 
करोतु कल्याणपरम्परां नः
     कारुण्यवाराशिरपाङ्गपातैः ।
कल्याणशैलप्रतिमस्तनाढ्या
     कञ्जातसञ्जातमनोज्ञजाया ॥ १॥

एणाङ्कगर्वापहृतिप्रचण्ड-
     तुण्डाधराधःकृतपक्वबिम्बा ।
एकान्तवासादरशालिमौनि-
     लभ्याङ्घ्रिपद्मावतु वाक्सवित्री ॥ २॥

ईशाजविष्ण्वादिसुरार्च्यमाना
     कुन्देन्दुशङ्खस्फटिकाच्छकान्तिः ।
ईहावियुक्ताप्यनिजस्वरूपा
     बालेन्दुचूडावतु भारती नः ॥ ३॥

लक्ष्मीशिवाशोभितपार्श्वभागा
     शचीप्रमुख्यामरमानिनीड्या ।
ललामराजन्निटिलप्रदेशा
     वीणालसत्पाणिरवत्वजस्रम् ॥ ४॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीशारदास्तुतिः समाप्ता ।

bottom of page