top of page
शारदास्तुतिः ३ (शिवाभिनवनृसिंहभारतीविरचिता दूरीकृत्य परीक्षणस्य) | sharada stutih 3
श्रीशारदास्तुतिः ३
(जैत्रयात्रां निर्वर्त्य श्रीशृङ्गगिरिप्रवेशकाले)
दूरीकृत्य परीक्षणस्य करणं किं ते गिरां देवते
युक्तं वर्षचतुष्टयोपरि कियद्घस्रान्कृपावारिधे ।
मन्दो मत्पदयुग्मविरहं सोढुं न शक्नोत्ययं
कञ्चित्कालमपीति पद्मजसखि ज्ञात्वापि मातर्भृशम् ॥ १॥
यद्यप्यम्ब सरोजयोनिदयिते लोकानशेषानपि
श्रद्धाभक्तियुतान्विधाय नितरां कार्याणि सर्वाण्यपि ।
दुःसाध्यान्यपि लोकसन्ततिबहुश्रेयस्कराण्यादरा-
त्सपूर्णान्यकरोस्तथापि पदयोर्दूरं न सोढुं क्षमः ॥ २॥
त्वत्पादाम्बुजयोः कदापि विरहो मा भूदितो वा गिरां
मातर्नम्रजनावनव्रतधरे कारुण्यवारान्निधे…